मार्कण्डेय उवाच । स्कन्दस्य पार्षदान्घोराञ्शृणुष्वाद्भुतदर्शनान् । वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः । ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः ॥
mārkaṇḍeya uvāca । skandasya pārṣadān ghorāñ śr̥ṇuṣvādbhutadarśanān । vajraprahārāt skandasya jajñus tatra kumārakāḥ । ye haranti śiśūñ jātān garbhasthāṁś caiva dāruṇāḥ ॥